वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्र꣣ इ꣢꣫द्धर्योः꣣ स꣢चा꣣ स꣡म्मि꣢श्ल꣣ आ꣡ व꣢चो꣣यु꣡जा꣢ । इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥५९७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥५९७॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । इत् । ह꣡र्योः꣢꣯ । स꣡चा꣢꣯ । स꣡म्मि꣢꣯श्लः । सम् । मि꣣श्लः । आ꣢ । व꣣चोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣡न्द्रः꣢꣯ । व꣣ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥५९७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 597 | (कौथोम) 6 » 3 » 2 » 3 | (रानायाणीय) 6 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले दो मन्त्रों में इन्द्र देवता है। यहाँ परमात्मा की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

(इन्द्रः इत्) जगदीश्वर ही (वचोयुजा) आदेशवचन होते ही नियुक्त हो जानेवाले (हर्योः) भूमि-आकाश, दिन-रात, शुक्लपक्ष-कृष्णपक्ष, प्राण-अपान, ज्ञानेन्द्रिय-कर्मेन्द्रिय, ऋक्-साम रूप घोड़ों का (सचा) एक साथ (सम्मिश्लः) संयुक्त करनेवाला है। (इन्द्रः) वह जगदीश्वर (वज्री) वज्रधारी के समान निरङ्कुशों को नियम में रखनेवाला और (हिरण्ययः) प्रतापी है ॥३॥

भावार्थभाषाः -

महाप्रतापी परमेश्वर ने ही सौरमण्डल में द्यावापृथिवी आदि रूप, शरीर में प्राण-अपान आदि रूप तथा मनोभूमि में ऋक्-साम आदि रूप अश्वों को सामञ्जस्यपूर्वक नियुक्त किया है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ द्वयोरिन्द्रो देवता। अत्र परमात्मनो महिमानमाचष्टे।

पदार्थान्वयभाषाः -

(इन्द्रः इत्) जगदीश्वर एव (वचोयुजा) वचोयुजोः, आदेशसमकालमेव युज्यमानयोः। अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन षष्ठीद्विवचनस्य आकारादेशः। (हर्योः) द्यावापृथिवीरूपयोः, अहो- रात्ररूपयोः, शुक्लकृष्णपक्षरूपयोः, प्राणापानरूपयोः, ज्ञानेन्द्रियकर्मेन्द्रियरूपयोः, ऋक्सामरूपयोश्च अश्वयोः (सचा) सह (सम्मिश्लः) सम्मिश्रः संयोजयिता विद्यते। अत्र ‘संज्ञाछन्दसोर्वा कपिलकादीनामिति वक्तव्यम्’ अ० ८।२।१८ वा० इत्यनेन रेफस्य लत्वादेशः। (इन्द्रः) स जगदीश्वरः (वज्री) अङ्कुशधर इव निरङ्कुशानां नियामकः, लुप्तोपममेतत् (हिरण्ययः) प्रतापवांश्च (विद्यते) इति शेषः।१ इमे द्यावापृथिवी वै हरी विपक्षसा। तै० ३।९।४।२, अहोरात्रौ वा अस्य हरी। जै० ब्रा० २।७९, पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी। ष० ब्रा० १।१ ऋक्सामे वै हरी। श० ४।४।३।६, प्राणापानौ वा अस्य हरी। जै० ब्रा० २।७९। हिरण्ययः इत्यत्र ‘ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि’ अ० ६।४।१७५ इति हिरण्यशब्दाद् विहितस्य मयटो मशब्दलोपो निपात्यते। ज्योतिर्हि हिरण्म्। श० ४।३।१।२१ ॥३॥

भावार्थभाषाः -

महाप्रतापेन परमेश्वरेणैव सौरमण्डले द्यावापृथिव्यादिरूपौ, शरीरे प्राणापानादिरूपौ, मनोभूमौ च ऋक्सामादिरूपावश्वौ सामञ्जस्यपूर्वकं नियुक्तौ स्तः ॥३॥

टिप्पणी: १. ऋ० १।७।२, साम० ७९७, अथ० २०।३८।५, ४७।५, ७०।८। २. दयानन्दर्षिणा मन्त्रेऽस्मिन् ऋग्भाष्ये प्रथमेन इन्द्रशब्देन वायुः, द्वितीयेन च इन्द्रशब्देन सूर्यो गृहीतः।